Dhanvantari Mantra in Hindi – धन्वंतरी मंत्र
ध्यानम् ।
शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः ।
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् ।
कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यम् ।
वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥
अच्युतानन्त गोविन्द विष्णो नारायणाऽमृत
रोगान्मे नाशयाऽशेषानाशु धन्वन्तरे हरे ।
आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं
स्वभक्तेभ्योऽनुगृह्णन्तं वन्दे धन्वन्तरिं हरिम् ॥
धन्वन्तरेरिमं श्लोकं भक्त्या नित्यं पठन्ति ये ।
अनारोग्यं न तेषां स्यात् सुखं जीवन्ति ते चिरम् ॥
धन्वंतरी मंत्र
ऊं नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतराये:
अमृतकलश हस्ताय सर्व भयविनाशाय सर्व रोगनिवारणाय
त्रैलोक्यपतये त्रैलोक्यनिधये
श्री महाविष्णुस्वरूप श्री धनवंतरी स्वरूप
श्री श्री श्री औषधचक्र नारायणाय स्वाहा।
गायत्री
ओं वासुदेवाय विद्महे सुधाहस्ताय धीमहि तन्नो धन्वन्तरिः प्रचोदयात् ।
तारकमन्त्रम् ।
ओं धं धन्वन्तरये नमः ।
पाठान्तरं
ओं नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय त्रैलोक्यपतये त्रैलोक्यनिधये श्रीमहाविष्णुस्वरूप श्रीधन्वन्तरीस्वरूप श्री श्री श्री औषधचक्र नारायणाय स्वाहा ।